श्री रुद्र चमक मन्त्राः Rudram : Chamakam * जानिए कैसे करें रुद्राभिषेक
शिव को अतिप्रिय रुद्राभिषेक और रुद्राष्टाध्यायी
https://amzn.to/3odPSUj
ॐ
॥ श्री रुद्रप्रश्नः ॥
॥ न्यासः ॥
अस्य श्री रुद्राद्याय प्रश्न महामन्त्रस्य
अघोर ऋषिः
अनुष्टुप् छन्दः
सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता ॥
नमःशिवायेति बीजम् ।
शिवतरायेति शक्तिः ।
महादेवायेति कीलकम् ।
श्री सांबसदाशिव प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ॥
ओं अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिकायै वषट्।
निरूढपशुबन्धात्मने कवचाय हुम्।
ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट्॥
भूर्भुवसुवरोमिति दिग्बन्धः ॥
॥ ध्यानम् ॥
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर-
ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन्
ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥
ब्रह्माण्ड व्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥
ओं ग॒णा॑नां त्वा ग॒णप॑तिóèहवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑ स्सीद॒ साद॑नम् ॥ महागणपतेये नमः ॥
॥ ओं नमो भगवते॑ रुद्रा॒य ॥
नम॑स्ते रुद्रम॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑-मु॒त ते॒ नमः॑ ॥ १.१॥
यात॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥ १.२॥
या ते॑ रुद्र शि॒वा त॒नू-रघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शंता॒भिचा॑कशीहि ॥ १.३॥
यामिषुं॑ गिरिशंत॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिóè॑सीः॒ पुरु॑षं॒ जग॑त् ॥ १.४॥
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।
यथा॑ नः॒ सर्व॒मिज्जग॑दय॒क्ष्मóèसु॒मना॒ अस॑त् ॥ १.५॥
अध्य॑वोचदधि व॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीóè॑श्च॒ सर्वा॓ञ्जं॒भय॒न्त्सर्वा॓श्च यातुधा॒न्यः॑ ॥ १.६॥
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑मं॒गलः॑ ।
ये चे॒माóèरु॒द्रा अ॒भितो॑ दि॒क्षु ।
श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒óè॒हेड॑ ईमहे ॥ १.७॥
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑ ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥ १.८॥
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॓ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑ ॥ १.९॥
प्रमुं॑च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒-र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ॥ १.१०॥
अ॒व॒तत्य॒ धनु॒स्त्वóè सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ॥ १.११॥
विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाóè उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निषं॒गथिः॑ ॥ १.१२॥
या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒ऽस्मान्वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज ॥ १.१३॥
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे॓ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥ १.१४॥
परि॑ ते॒ धन्व॑नो हे॒ति-र॒स्मान्वृ॑णक्तु वि॒श्वतः॑ ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तम् ॥ १.१५॥
नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्र्यंब॒काय॑
त्रिपुरान्त॒काय॑ त्रिकाग्नि-का॒लाय॑ कालाग्निरु॒द्राय॑
नीलक॒ण्ठाय॑ म्रुत्युंज॒याय॑ सर्वेश्व॒राय॑
सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नमः॑ ॥
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमो॒ नमो॑
वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नमः॑
स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑
बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒
हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑
भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑
रु॒द्राया॑तता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑
सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॑
रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑
म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नमो॑
भुवं॒तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑
उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑
कृत्स्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमः॑ ॥
नमः॒ सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒
पत॑ये॒ नमो॒ नमः॑
ककु॒भाय॑ निष॒ङ्गिणे॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑
निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒
वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑
निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑
सृका॒विभ्यो॒ जिघाóè॑सद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑
ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒ नम॑
उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑
इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑
आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑
आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमो
ऽस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ नम॒
आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑
स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒-
स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑
स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒
अश्वे॒भ्योऽश्व॑पतिभ्यश्च वो॒ नमः॑ ॥
नम॑ आव्या॒धिनी॓भ्यो वि॒विध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒
उग॑णाभ्यस्तृóèह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑
गृ॒त्सेभ्यो॑ गृ॒त्सप॑तिभ्यश्च वो॒ नमो॒ नमो॒
व्राते॓भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑
ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒
वि॒रू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑
म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑
र॒थिभ्यो॑ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे॓भ्यो
रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒
सेना॓भ्यः सेन॒निभ्य॑श्च वो॒ नमो॒ नमः॑
क्ष॒त्तृभ्यः॑ संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒-
स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒
कुला॑लेभ्यः क॒र्मारे॓भ्यश्च वो॒ नमो॒ नमः॑
पु॒ञ्जिष्टे॓भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑
इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑
मृग॒युभ्यः॑ श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒
श्वभ्यः॒ श्वप॑तिभ्यश्च वो॒ नमः॑ ॥
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च पशु॒पत॑ये च॒
नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒
नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वने च॒
नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒
नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो॓ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒
नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒
नमो॑ वृ॒द्धाय॑ च सं॒वृद्ध्व॑ने च॒
नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒
नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒
नमः॑ स्रोत॒स्याय॑ च॒ द्वीप्या॑य च ॥
नमो॓ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒
नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒
नमो॑ मध्य॒माय॑ चापग॒ल्भाय॑ च॒
नमो॑ जघ॒न्याय॑ च॒ बुध्नि॑याय च॒
नमः॑ सो॒भ्या॑य च प्रतिस॒र्या॑य च॒
नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒
नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒
नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒
नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒
नमः॑ श्र॒वाय॑ च प्रतिश्र॒वाय॑ च
नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒
नमः॒ शूरा॑य चावभिन्द॒ते च॒
नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ॥
नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒
नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चायु॒धिने च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒
नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒
नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च
नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒
नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒ध्रिया॑य चात॒प्या॑य च॒
नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒
नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च ॥
नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒
नमः॑ श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒
नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒
नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यो॒
नम॑स्ता॒राय॒ नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒
नमः॑ शंक॒राय॑ च मयस्क॒राय॑ च॒
नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒
नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒
नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒
नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒
नम॑ आता॒र्या॑य चाला॒द्या॑य च॒
नमः॒ शष्प्या॑य च॒ फेन्या॑य च॒
नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च ॥
नम॑ इरि॒ण्या॑य च प्र॒पथ्या॑य च॒
नमः॑ किóèशि॒लाय॑ च॒ क्षय॑णाय च॒
नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒
नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒
नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒
नमो॓ हृद॒य्या॑य च निवे॒ष्प्या॑य च॒
नमः॑ पाóèस॒व्या॑य च रज॒स्या॑य च॒
नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒
नमो॒ लोप्या॑य चोल॒प्या॑य च॒
नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒
नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒
नमो॑ऽपगु॒रमाणाय चाभिघ्न॒ते च॒
नम॑ आख्खिद॒ते च॑ प्रख्खिद॒ते च॒
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒óè॒ हृद॑येभ्यो॒
नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒
नम॑ आनिर्ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥
द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित ।
ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर्मारो॒ मो ए॑षां॒
किंच॒नाम॑मत् ॥ १०.१॥
या ते॑ रुद्र शि॒वा त॒नूः शि॒वा वि॒श्वाह॑ भेषजी ।
शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे॓ ॥ १०.२॥
इ॒माóèरु॒द्राय॑ त॒वसे॑ कप॒र्दिने॓ क्ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिम् ।
यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑
अ॒स्मिन्नना॑तुरम् ॥ १०.३॥
मृ॒डा नो॑ रुद्रो॒तनो॒ मय॑स्कृधि क्ष॒य॑द्वीराय॒ नम॑सा विधेम ते ।
यच्छं च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ ॥ १०.४॥
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्त-मु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ॥ १०.५॥
मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धी-र्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ १०.६॥
आरात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु ।
रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यथा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः॓ ॥ १०.७॥
स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गन्न भी॒म-मु॑पह॒त्नुमु॒ग्रम् ।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः॓ ॥ १०.८॥
परि॑णो रु॒द्रस्य॑ हेतिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा मघ॑वद्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥ १०.९॥
मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव ।
प॒र॒मे॒ वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न आच॑र॒ पिना॑कं॒ विभ्र॒दाग॑हि ॥ १०.१०॥
विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः ।
यास्ते स॒हस्रóè॑हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः ॥ १०.११॥
स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑ ।
तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि ॥ १०.१२॥
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॓म् ।
तेषाóè॑सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि ॥ ११.१॥
अ॒स्मिन् म॑ह॒त्यर्ण॒वे॓ऽन्तरि॑क्षे भ॒वा अधि॑ ॥ ११.२॥
नील॑ग्रीवाः शिति॒कण्ठाः॓ श॒र्वा अ॒धः क्ष॑माच॒राः ॥ ११.३॥
नील॑ग्रीवाः शिति॒कण्ठा॒ दिवóè॑रु॒द्रा उप॑श्रिताः ॥ ११.४॥
ये वृ॒क्षेषु॑ स॒स्पिंज॑रा॒ नील॑ग्रीवा विलो॑हिताः ॥ ११.५॥
ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑ ॥ ११.६॥
ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिबतो॒ जनान्॑ ॥ ११.७॥
ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ॥ ११.८॥
ये ती॒र्थानि॑ प्र॒चर॑न्ति॒ सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ ११.९॥
य ए॒ताव॑न्तश्च॒ भूयाóè॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाóè॑सहस्र-योज॒ने ऽव॒धन्वा॑नि तन्मसि ॥ ११.१०॥
नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ये॓ ऽन्तरि॑क्षे॒
ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्ष॒मिष॑व॒-स्तेभ्यो॒ दश॒
प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची॒र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒
नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒
तं वो॒ जम्भे॑ दधामि ॥ ११.११॥
त्र्यं॑बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्यो-र्मु॑क्षीय॒ माऽमृता॓त् ॥ १॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ ।
यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥ २॥
तमु॑ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो वि॑श्वस्य॒ क्ष॑यति भेष॒जस्य॑ ।
यक्ष्वा॓म॒हे सौ॓मन॒साय॑ रु॒द्रं नमो॓भि र्दे॒वमसु॑रं दुवस्य ॥ ३॥
अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः ।
अ॒यं मे॓ वि॒श्व-भे॓षजो॒ऽयóè शि॒वाभि॑मर्शनः ॥ ४॥
ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे ।
तान् य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे ।
मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॓ ॥ ५॥
ओं नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ।
प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः ।
तेनान्नेना॓प्याय॒स्व ॥ ६॥
नमो रुद्राय विष्णवे मृत्युर्मे पाहि
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
॥ चमकप्रश्नः ॥
अग्ना॑विष्णू सजोष॑से॒मा वर्ध॑न्तु वां॒ गिरः॑ ।
द्युम्नैर्वाजे॑भि॒राग॑तम् ।
वाज॑श्च मे प्रस॒वश्च॑ मे॒
प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒
स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒
ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे
व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒
वाक्च॑ मे॒ मनश्च॑ मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒
बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे
ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मे
ऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूóè॑षि च मे॒
शरीरा॑णि च मे ॥ १॥
ज्यैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒
भाम॑श्च मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे
वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे
वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒
जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒
मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे
सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे
भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं च म ऋ॒द्धं च॑ म॒
ऋद्धि॑श्च मे क्~लु॒प्तं च॑ मे॒ क्~लुप्ति॑श्च मे म॒तिश्च मे
सुम॒तिश्च॑ मे ॥ २॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒
काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒
वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे
य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒
विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒
सूश्च॑ मे प्र॒सूश्च॑ मे॒ सी॑रं च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒
ऽमृ॑तं च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे
दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒
शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ ३॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे
घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे
कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म औ॒द्भि॑द्यं च मे
र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्च मे
वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे
पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मे
ऽन्नं॑ च॒ मेऽक्षुच्च मे व्री॒हिय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒
तिला॓श्च मे मु॒द्गाश्च॑ मे खल्वा॓श्च मे गो॒धूमा॑श्च मे
म॒सुरा॓श्च मे प्रि॒यंग॑वश्च॒ मेऽणवश्च मे
श्या॒माका॓श्च मे नी॒वारा॓श्च मे ॥ ४॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒
सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मे
ऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च मे श्या॒मं च॑ मे
लो॒हं च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒
ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे
ग्राम्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां
वि॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒
वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे
ऽर्थश्च॑ म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे ॥ ५॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे
सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे
पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे
मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒
त्वष्टा॑ च म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒
विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे
म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे
पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒
द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे
मूर्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ॥ ६॥
अ॒óè॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॓भ्यश्च॒ मेऽधि॑पतिश्च म
उपा॒óè॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे
मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे
शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे
ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मे
ऽतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे
मरुत्व॒तीया॓श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे
सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे
पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ ७॥
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदिश्॑च मे॒ धिष्णि॑याश्च मे॒
स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म
उपर॒वाश्च॑ मे ऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे
वाय॒व्या॑नि च मे पूत॒भृच्च॑ मे आधव॒नीय॑श्च म॒
आग्नी॓ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे
पुरो॒डाशा॓श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे
स्वगाका॒रश्च॑ मे ॥ ८॥
अ॒ग्निश्च॑ मे ध॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे
प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मे ऽदि॑तिश्च मे॒
दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो दिश॑श्च मे
य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒
यजु॑श्च मे दी॒क्षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्रतं च॑ मे
ऽहोरा॒त्रयो॓र्वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम् ॥ ९॥
गर्भा॓श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्॒य॒वी च॑ मे
दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे
पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे
तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म
उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च मे वे॒हच्च॑ मे
ऽन॒ड्वाञ्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां
प्रा॒णो य॒ज्ञेन कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां
व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒óè॒
श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒
वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां
य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ १०॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒
नव च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पंच॑दश च मे
स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑ विóèशतिश्च मे॒
त्रयो॑विóèशतिश्च मे॑ पंच॑विóèशतिश्च मे
स॒प्तवि॒óè॑शतिश्च मे॒ नव॑विóèशतिश्च म॒
एक॑त्रिóèशच्च मे॒ त्रय॑स्त्रिóèशच्च मे॒
चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे
विóèश॒तिश्च॑ मे॒ चतु॑र्विóèशतिश्च मे॒ऽष्टाविóè॑शतिश्च मे॒
द्वात्रिóè॑शच्च मे॒ षट्त्रिóè॑शच्च मे चत्वरि॒óè॒शच्च॑ मे॒
चतु॑श्चत्वारिóèशच्च॑ मे॒ऽष्टाच॑त्वारिóèशच्च मे॒
वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒
व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒
भुव॑न॒श्चाधि॑पतिश्च ॥ ११॥
इडा॑ देव॒हूर्मनु॑र्यज्ञ॒नीर्बृह॒स्पतिरुक्थाम॒दानि॑
शóèसिष॒द्विश्वे॑दे॒वाः सू॓क्त॒वाचः॒ पृथि॑वीमात॒र्मा
मा॑ हिóèसी॒र्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒
मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासóè
शुश्रू॒षेण्यां॓ मनु॒ष्ये॑भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु
शो॒भायै॑ पि॒तरोऽनु॑मदन्तु ॥
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
asya shree rudraadhyaaya prashna mahaamantrasya
aghora rushi: |
anushTup Chanda: |
sankarshaNa moorti svaroopo yosaavaaditya:
paramapurusha: sa esha rudro devataa |
namaha shivaayeti beejam |
shivataraayeti shakti: |
mahaadevaayeti keelakam |
shree saamba sadaashiva prasaada sidhdyarthe jape viniyoga: |
om agnihotraatmane angushThaabhyaam namaha |
darshapoorNa maasaatmane tarjaneebhyaam namaha |
chaaturmaasyaatmane madhyamaabhyaam namaha |
nirooDha pashu bandhaatmane anaamikaabhyaam namaha |
jyotishTomaatmane kanishThikaabhyaam namaha |
sarva kratvaatmane karatala karaprushThaabhyaam namaha ||
agnihotraatmane hrudayaaya namaha |
darshapoorNa maasaatmane shirase svaahaa |
chaaturmaasyaatmane shikhaayai vashaT |
nirooDha pashu baMdhaatmane kavachaaya hum |
jyotishTomaatmane netratrayaaya voushaT |
sarva kratvaatmane astraaya phaT |
bhoorbhuvassuvaromiti digbandha: ||
dhyaanam
---------
aapaataaLa nabha: sthalaanta bhuvana brahmaanDa maavisphurat
jyoti: sphaaTika linga mouLi vilasatpoorNendu vaantaamrutai: |
astokaapluta meka meesha manisham rudraanuvaakaanjapan
dhyaaye deepsita siddhaye dhruvapadam viprobhishinche - cChivam ||
brahmaanDa vyaapta dehaa bhasita hima ruchaa bhaasamaanaa
bhujangai: |
kanThe kaalaa: kapardaakalita shashikalaa - shchanDakodanDa
hastaa: ||
tryakshaa rudraakshamaalaa: prakaTitavibhavaa: shaambhavaa
moortibhedaa |
rudraa: shreerudrasookta: prakaTitavibhavaa na: prayacChantu
soukhyam ||
Gayatri
-------
Om Tat Purushaya Vidhmahe Sahshraksha Mahadevaya Dheemahi Thanno Rudra Prachodayath.
Om Sarveswaraya Vidhmahe Shula-hastaya Dheemahi Thanno Rudra Prachodayath.
Purushasya Vidhmahe Sahshrakshasya Mahadevasya Dheemahi Thanno Rudra Prachodayath.
|| shaantipaaTha: ||
--------------------
sham cha me mayashcha me priyam cha me anukaamashcha me
kaamashcha me saumanasashcha me bhadram cha me shreyashcha
me vasyashcha me yashashcha me bhagashcha me draviNam cha me
yantaa cha me dhartaa cha me kshemashcha me dhrutishcha me
vishvam cha me mahashcha me samviccha me gnaatram cha me
sooshcha me prasooshcha me seeram cha me layashcha ma
rutam cha me amrutam cha me yakshmam cha me naamayaccha me
jeevaatushcha me deerghaayutvam cha me anamitram cha me abhayam
cha me sugam cha me shayanam cha me sooshaa cha me sudinam cha
me ||
लघु रुद्र पूजा
भगवान शिव का एक नाम रुद्र भी है। रुद्र शब्द की महिमा का गुणगान धार्मिक ग्रंथों में मिलता है। यजुर्वेद में कई बार इस शब्द का उल्लेख हुआ है। रुद्राष्टाध्यायी को तो यजुर्वेद का अंग ही माना जाता है। रुद्र अर्थात रुत् और रुत् का अर्थ होता है दुखों को नष्ट करने वाला यानि जो दुखों को नष्ट करे वही रुद्र है अर्थात भगवान शिव क्योंकि वहीं समस्त जगत के दुखों का नाश कर जगत का कल्याण करते हैं। आइये आपको बताते हैं लघु रुद्र पूजा के बारे में कि क्या होती है लघु रुद्र पूजा, यह कैसे की जाती है और इस लघु रुद्र पूजा के करने से क्या लाभ मिलता है।
क्या होती है लघु रुद्र पूजा
रुद्राष्टाध्यायी को यजुर्वेद का अंग माना जाता है। वैसे तो भगवान शिव अर्थात रुद्र की महिमा का गान करने वाले इस ग्रंथ में दस अध्याय हैं लेकिन चूंकि इसके आठ अध्यायों में भगवान शिव की महिमा व उनकी कृपा शक्ति का वर्णन किया गया है। इसलिये इसका नाम रुद्राष्टाध्यायी ही रखा गया है। शेष दो अध्याय को शांत्यधाय और स्वस्ति प्रार्थनाध्याय के नाम से जाना जाता है। रुद्राभिषेक करते हुए इन सम्पूर्ण 10 अध्यायों का पाठ रूपक या षडंग पाठ कहा जाता है। वहीं यदि षडंग पाठ में पांचवें और आठवें अध्याय के नमक चमक पाठ विधि यानि ग्यारह पुनरावृति पाठ को एकादशिनि रुद्री पाठ कहते हैं। पांचवें अध्याय में "नमः" शब्द अधिक प्रयोग होने से इस अध्याय का नाम नमक और आठवें अध्याय में "चमे" शब्द अधिक प्रयोग होने से इस अध्याय का नाम चमक प्रचलित हुआ। दोनों पांचवें और आठवें अध्याय पनरावृति पाठ नमक चमक पाठ के नाम से प्रसिद्ध हैं। एकादशिनि रुद्री के ग्यारह आवृति पाठ को लघु रूद्र कहा जाता है। वहीं लघु रुद्र के ग्यारह आवृति पाठ को महारुद्र तो महारुद्र के ग्यारह आवृति पाठ को अतिरुद्र कहा जाता है। रुद्र पूजा के इन्हीं रुपों को कहता है यह श्लोक-
रुद्रा: पञ्चविधाः प्रोक्ता देशिकैरुत्तरोतरं ।
सांगस्तवाद्यो रूपकाख्य: सशीर्षो रूद्र उच्च्यते ।।
एकादशगुणैस्तद्वद् रुद्रौ संज्ञो द्वितीयकः ।
एकदशभिरेता भिस्तृतीयो लघु रुद्रकः।।
क्यों होती है लघु रुद्र पूजा
"रुतम्-दु:खम्, द्रावयति-नाशयतीतिरुद्र:"
यानि भगवान शिव सभी दु:खों को नष्ट कर देते हैं। सबसे बड़ा और अहम कारण रुद्र पूजा का यही है कि इससे भगवान शिव की कृपा प्राप्त होती है। रुद्रार्चन से मनुष्य के पातक एवं महापातक कर्म नष्ट होकर उसमें शिवत्व उत्पन्न होता है और भगवान शिव के आशीर्वाद से साधक के सभी मनोरथ पूर्ण होते हैं। कहा भी जाता है कि सदाशिव रुद्र की पूजा से स्वत: ही सभी देवी-देवताओं की पूजा हो जाती है। रुद्रहृद्योपनिषद में कहा गया है कि 'सर्वदेवात्मको रुद्र: सर्वे देवा: शिवात्मका:' अर्थात् - सभी देवताओं की आत्मा में रूद्र उपस्थित हैं और सभी देवता रूद्र की आत्मा हैं।
पूजा विधि
इसमें में रुद्राष्टाध्यायी के एकादशिनि रुद्री के ग्यारह आवृति पाठ किया जाता है। इसे ही लघु रुद्र कहा जाता है। यह पंच्यामृत से की जाने वाली पूजा है। इस पूजा को बहुत महत्वपूर्ण माना जाता है। प्रभावशाली मंत्रो और शास्त्रोक्त विधि से विद्वान ब्राह्मण द्वारा पूजा को संपन्न करवाया जाता है। इस पूजा से जीवन में आने वाले संकटो एवं नकारात्मक ऊर्जा से छुटकारा मिलता है।
हिंदू सनातन धर्म में पूजा के समय मंत्र उच्चारण का बहुत महत्व माना जाता है। शास्त्रो में भी सभी देवी-देवताओं की पूजा में अलग-अलग मंत्रों के उच्चारण का विशेष महत्व बताया गया है। मंत्र जाप करने या उच्चारण करने का केवल धार्मिक महत्व ही नहीं बल्कि वैज्ञानिक महत्व भी माना जाता है। मंत्र जाप करने से शरीर में एक प्रकार का कंपन उत्पन्न होता है, जिससे हमारे शरीर में ऊर्जा का प्रवाह होता है। हिंदू धर्म में हर मांगलिक अनुष्ठान मंत्रोच्चारण के साथ ही संपन्न किया जाता है। मंदिरों में दैनिक पूजा में आरती के पश्चात कुछ मंत्रो का उच्चारण विशेष रुप से किया जाता है। एक मंत्र ऐसा भी है जिसके बिना पूजा अधूरी मानी जाती है। इस मंत्र का उच्चारण अवश्य किया जाता है।
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि ।।
इस मंत्र में भगवान शिवजी की स्तुति की गई हैं । कहा जाता है कि इस मंत्र का उच्चारण भगवान विष्णु ने शिव जी की प्रशंसा में किया था।
इसका मंत्र अर्थ इस प्रकार से है।
कर्पूरगौरं: अर्थात् कर्पूर के समान गौर वर्ण वाले ।
करुणावतारं: करुणा के जो साक्षात् अवतार हैं ।
संसारसारं: समस्त सृष्टि के जो सार हैं ।
भुजगेंद्रहारम्: जो गले में भुजगेंद्र अर्थात् सर्पों की माला धारण करते हैं।
सदा वसतं हृदयाविन्दे भवंभावनी सहितं नमामि- इसका अर्थ है कि जो शिव, पार्वती के साथ सदैव मेरे हृदय में निवास करते हैं, उनको मेरा नमन है ।
इस मंत्र का एक साथ अर्थ होता है। जो कर्पूर के समान गौर वर्ण वाले, करुणा के अवतार हैं, संसार के सार हैं जो अपने गले में भुजंगों का हार धारण करते हैं, वे भगवान शिव माता भवानी सहित मेरे ह्रदय में सदैव निवास करें और उन्हें मेरा नमन है ।
पूजा के पश्चात इस मंत्र के उच्चारण का महत्व
प्रतिदिन मंदिरों में होने वाली पूजा के पश्चात इस मंत्र का उच्चारण अवश्य किया जाता है। भगवान शिव शमशान के निवासी हैं वे अपने शरीर पर भस्म धारण करते हैं, इसलिए उनका स्वरुप देखने में भयंकर माना जाता है। भगवान शिव की इस स्तुति में उनके सुंदर और दिव्य स्वरुप का वर्णन किया गया है माना जाता है माता पार्वती से विवाह के समय स्वयं भगवान विष्णु ने यह स्तुति गाई थी।
भगवान शिव सभी देवों के देव हैं पूरे संसार का जीवन और मरण भगवान शिव के ही अधीन है। इसलिए पूजा के बाद भगवान शिव की स्तुति विशेष रुप से की जाती है।
रुद्राष्टाध्यायी Rudrāṣṭādhyāyī, इसे शुक्लयजुर्वेदीय रुद्राष्टाध्यायी भी कहते हैं। रुद्राष्टाध्यायी दो शब्द रुद्र अर्थात् शिव और अष्टाध्यायी अर्थात् आठ अध्यायों वाला, इन आठ अध्यायों में शिव समाए हैं। वैसे तो रुद्राष्टाध्यायी में कुल दस अध्याय हैं परंतु आठ तक को ही मुख्य माना जाता है।
रुद्राष्टाध्यायी यजुर्वेद का अंग है और वेदों को ही सर्वोत्तम ग्रंथ बताया गया है। वेद शिव के ही अंश है वेद: शिव: शिवो वेद:। अर्थात् वेद ही शिव है तथा शिव ही वेद हैं, वेद का प्रादुर्भाव शिव से ही हुअा है। भगवान शिव तथा विष्णु भी एकांश हैं तभी दोनो को हरिहर कहा जाता है, हरि अर्थात् नारायण (विष्णु) और हर अर्थात् महादेव (शिव) वेद और नारायण भी एक हैं वेदो नारायण: साक्षात् स्वयम्भूरिति शुश्रुतम्। यही कारण है कि भारतीय संस्कृति में वेदों का इतना महत्व है तथा इनके ही श्लोकों, सूक्तों से पूजा, यज्ञ, अभिषेक आदि किया जाता है। शिव से ही सब है तथा सब में शिव का वास है, शिव, महादेव, हरि, विष्णु, ब्रह्मा, रुद्र, नीलकंठ आदि सब ब्रह्म के पर्यायवाची हैं। रुद्र अर्थात् 'रुत्' और रुत् अर्थात् जो दु:खों को नष्ट करे, वही रुद्र है, रुतं--दु:खं, द्रावयति--नाशयति इति रुद्र:। रुद्रहृदयोपनिषद् में लिखा है--
सर्वदेवात्मको रुद्र: सर्वे देवा: शिवात्मका:।
रुद्रात्प्रवर्तते बीजं बीजयोनिर्जनार्दन:।।
यो रुद्र: स स्वयं ब्रह्मा यो ब्रह्मा स हुताशन:।
ब्रह्मविष्णुमयो रुद्र अग्नीषोमात्मकं जगत्।।
यह श्लोक बताता है कि रूद्र ही ब्रह्मा, विष्णु है सभी देवता रुद्रांश है और सबकुछ रुद्र से ही जन्मा है। इससे यह सिद्ध है कि रुद्र ही ब्रह्म है, वह स्वयम्भू है।
इसी रुद्र (शिव) के उपासना के निमित्त रुद्राष्टाध्यायी ग्रंथ वेद का ही सारभूत संग्रह है। जिस प्रकार दूध से मक्खन निकालते हैं उसी प्रकार जनकल्याणार्थ शुक्लयजुर्वेद से रुद्राष्टाध्यायी का भी संग्रह हुआ है। इस ग्रंथ में गृहस्थधर्म, राजधर्म, ज्ञान-वैराज्ञ, शांति, ईश्वरस्तुति आदि अनेक सर्वोत्तम विषयों का वर्णन है।
मनुष्य का मन विषयलोलुप होकर अधोगति को प्राप्त न हो और व्यक्ति अपनी चित्तवृत्तियों को स्वच्छ रख सके इसके निमित्त रुद्र का अनुष्ठान करना मुख्य और उत्कृष्ट साधन है। यह रुद्रानुष्ठान प्रवृत्ति मार्ग से निवृत्ति मार्ग को प्राप्त करने में समर्थ है। इसमें ब्रह्म (शिव) के निर्गुण और सगुण दोनो रूपों का वर्णन हुआ है। जहाँ लोक में इसके जप, पाठ तथा अभिषेक आदि साधनों से भगवद्भक्ति, शांति, पुत्र पौत्रादि वृद्धि, धन धान्य की सम्पन्नता और स्वस्थ जीवन की प्राप्ति होती है; वहीं परलोक में सद्गति एवं मोक्ष भी प्राप्त होता है। वेद के ब्राह्मण ग्रंथों में, उपनिषद, स्मृति तथा कई पुराणों में रुद्राष्टाध्यायी तथा रुद्राभिषेक की महिमा का वर्णन है।
वायुपुराण में लिखा है--
यश्च सागरपर्यन्तां सशैलवनकाननाम्।
सर्वान्नात्मगुणोपेतां सुवृक्षजलशोभिताम्।।
दद्यात् कांचनसंयुक्तां भूमिं चौषधिसंयुताम्।
तस्मादप्यधिकं तस्य सकृद्रुद्रजपाद्भवेत्।।
यश्च रुद्रांजपेन्नित्यं ध्यायमानो महेश्वरम्।
स तेनैव च देहेन रुद्र: संजायते ध्रुवम्।।
अर्थ: जो व्यक्ति समुद्रपर्यन्त, वन, पर्वत, जल एवं वृक्षों से युक्त तथा श्रेष्ठ गुणों से युक्त ऐसी पृथ्वी का दान करता है, जो धनधान्य, सुवर्ण और औषधियों से युक्त है, उससे भी अधिक पुण्य एक बार के रुद्री जप एवं रुद्राभिषेक का है। इसलिये जो भगवान शिव का ध्यान करके रुद्री का पाठ करता है, वह उसी देह से निश्चित ही रुद्ररूप हो जाता है, इसमें संदेह नहीं है।
इस प्रकार साधन पूजन की दृष्टि से सुद्राष्टाध्यायी का विशेष महत्व है।
प्राय: कुछ लोगों मे यह धारणा होती है कि मूलरूप से वेद के सुक्त आदि पुण्यदायक होते हैं अत: इन मन्त्रों का केवल पाठ और सुनना मात्र ही आवश्यक है। वेद तथा वेद के अर्थ तथा उसके गंभीर तत्वों से विद्वान प्राय: अनभिज्ञ हैं। वास्तव में यह सोंच गलत है, विद्वान वेद और वान से मिलकर बना है, तो वेद के विद्या को जो जाने वही विद्वान है, इसके संदर्भ में उनको जानकारी होना आवश्यक है। प्राचीन ग्रंथों में भी वैदिक तत्वो की महिमा का वर्णन है।
निरुक्तकार कहते हैं कि जो वेद पढ़कर उसका अर्थ नहीं जानता वह भार वाही पशु के तुल्य है अथवा निर्जन वन के सुमधुर उस रसाल वृक्ष के समान है जो न स्वयं उस अमृत रस का आस्वादन करता है और न किसी अन्य को ही देता है। अत: वेदमंत्रों का ज्ञान अतिकल्याणकारी होता है--
स्थाणुरयं भारहार: किलाभूदधीत्य वेदं न विजानाति योऽर्थम्। योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपप्मा।।
अत: रुद्राष्टाध्यायी के अभाव में शिवपूजन की कल्पना तक असंभव है।
रुद्राष्टाध्यायी अत्यंत ही मूल्यवान है, न ही इससे बिना रुद्राभिषेक ही संभव है और न ही इसके बिना शिव पूजन ही किया जा सकता है। यह शुक्लयजुर्वेद का मुख्य भाग है। इसमें मुख्यत: आठ अध्याय हैं पर अंतिम में शान्त्यध्याय: नामक नवम तथा स्वस्तिप्रार्थनामन्त्राध्याय: नामक दशम अध्याय भी हैं। इसके प्रथम अध्याय में कुल 10 श्लोक है तथा सर्वप्रथम गणेशावाहन मंत्र है, प्रथम अध्याय में शिवसंकल्पसुक्त है। द्वितीय अध्याय में कुल 22 वैदिक श्लोक हैं जिनमें पुरुसुक्त (मुख्यत: 16 श्लोक) है। इसी प्रकार आदित्य सुक्त तथा वज्र सुक्त भी सम्मिलित हैं। पंचम अध्याय में परम् लाभदायक रुद्रसुक्त है, इसमें कुल 66 श्लोक हैं। छठें अध्याय के पंचम श्लोक के रूप में महान महामृत्युंजय श्लोक है। सप्तम अध्याय में 7 श्लोकों की अरण्यक श्रुति है प्रायश्चित्त हवन आदि में इसका उपयोग होता है। अष्टम अध्याय को नमक-चमक भी कहते हैं जिसमें 24 श्लोक हैं।
श्लोकों की संख्या की सूची निम्नांकित है---
प्रथम अध्याय = 10 श्लोक
द्वितीय अध्याय = 22 श्लोक
तृतीय अध्याय = 17 श्लोक
चतुर्थ अध्याय = 17 श्लोक
पंचम अध्याय = 66 श्लोक
षष्ठम अध्याय = 8 श्लोक
सप्तम अध्याय = 7 श्लोक
अष्टम अध्याय = 29 श्लोक
शान्त्यध्याय: = 24 श्लोक
स्वस्तिप्रार्थनामंत्राध्याय: = 13 श्लोक
प्रथम अध्याय के 5वे श्लोक से इसकी शुरुआत है--
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति। दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु॥१॥
अर्थ: जो मन जागते हुए मनुष्य से बहुत दूर तक चला जाता है, वही द्युतिमान् मन सुषुप्ति अवस्था में सोते हुए मनुष्य के समीप आकर लीन हो जाता है तथा जो दूरतक जाने वाला और जो प्रकाशमान श्रोत आदि इन्द्रियों को ज्योति देने वाला है, वह मेरा मन कल्याणकारी संकल्प वाला हो।
येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः। यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसंकल्पमस्तु॥२॥
अर्थ: कर्म अनुष्ठान में तत्पर बुद्धि संपन्न मेधावी पुरुष यज्ञ में जिस मन से शुभ कर्मों को करते हैं, प्राजाजन के शरीर में और यज्ञीय पदार्थों के ज्ञान में जो मन अद्भुत पूज्य भाव से स्थित है, वह मेरा मन कल्याणकारी संकल्प वाला हो।
यत् प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु। यस्मान्न ऋते किंचन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु॥३॥
अर्थ: जो मन प्रकर्ष ज्ञान स्वरूप, चित्त स्वरूप और धैर्य रूप हैं; जो अविनाशी मन प्राणियों के भीतर ज्योति रूप से विद्यमान है और जिसकी सहायता के बिना कोई कर्म नहीं किया जा सकता, वह मेरा मन कल्याणकारी संकल्प वाला हो।
येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम्। येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु॥४॥
अर्थ जिस शाश्वत मन के द्वारा भूतकाल, वर्तमान काल और भविष्यकाल की सारी वस्तुएँ सब ओर से ज्ञात होती हैं और जिस मन के द्वारा सात होतावाला यज्ञ विस्तारित किया जाता है, वह मेरा मन कल्याणकारी संकल्प वाला हो।
यस्मिन्नृचः साम यजूं गुँ षि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः। यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥५॥
अर्थ: जिस मन में ऋग्वेद की ऋचाएँ और जिसमें सामवेद तथा यजुर्वेद के मंत्र उसी प्रकार प्रतिष्ठित है, जैसे रथ चक्र की नाभि में तीलियाँ जुड़े रहते हैं, जिस मन में प्रजाओं का सारा ज्ञान (पट में तंतु की भाँति) ओतप्रोत रहता है, वह मेरा मन कल्याणकारी संकल्प वाला हो।
सुषारथिरश्वानिव यन्मनुष्यान् नेनीयतेऽभीशुभिर्वाजिन इव। हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु॥६॥
अर्थ: जो मन मनुष्य को अपनी इच्छा के अनुसार उसी प्रकार घुमाता है, जैसे कोई अच्छा सारथि लगाम के सहारे वेगवान् घोड़ों को अपनी इच्छा के अनुसार नियंत्रित करता है; बाल्य, यौवन, वार्धक्य आदि से रहित तथा अति वेगवान् जो मन हृदय में स्थित है, वह मेरा मन कल्याणकारी संकल्प वाला हो।
रुद्राभिषेक
रुद्राभिषेक में शिवलिंग की विधिवत् पूजा की जाती है, इसमें आप दुग्ध, घृत, जल, गन्ने का रस, शक्कर मिश्रित जल अपने इच्छा के अनुसार उपयोग कर सकते हैं। नियम निम्नांकित है --
पूजन - सभी देवी देवताओं का विधिवत् पूजन करें।
अभिषेक - श्रिंगी द्वारा अभिषेक करें, रुद्राष्टाध्यायी का पाठ करें।
रुद्री पाठ की विधियाँ--
शुक्लयजुर्वेदीय रुद्राष्टाध्यायी का पाठ (1 या 11 बार)
रुद्राष्टाध्यायी का पंचम और अष्टम अध्याय का पाठ।
कृष्णयजुर्वेदीय पाठ का "नमक" पाठ 11 बार उसके बाद "चमक" पाठ के एक श्लोक का पाठ। (एकादश रूद्र पाठ)
शिव सहस्रनाम का पाठ।
रूद्र सुक्त का पंचम अध्याय का पाठ।
उत्तर पूजन पुन: पूजन करें।
बिल्वार्पण आचार्य शिवमहिम्न स्तोत्र आदि शिव श्रोत्रो का पाठ करते हुए बिल्व अर्पित करें।
आरती मंगल आरती करें।
हर हर महादेव
श्री शिव रूद्रअष्टकम -Shree Rudra Ashtakam
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम l
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेअहम ||
निराकारमोंकारमूलं तुरीयं गिरा घ्य़ान गोतीतमीशं गिरीशम l
करालं महाकाल कालं कृपालं गुणागार संसारपारं नतोअहम ||
तुश्हाराद्रि संकाश गौरं गभीरं मनोभूत कोटिप्रभा श्री शरीरम l
स्फुरन्मौलि कल्लोलिनी चारु गङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा ll
चलत्कुण्डलं भ्रू सुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम l
मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शंकरं सर्वनाथं भजामि ll
प्रचण्डं प्रकृश्ह्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशम l
त्रयः शूल निर्मूलनं शूलपाणिं भजे.अहं भवानीपतिं भावगम्यम ll
कलातीत कल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी l
चिदानन्द संदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी ll
न यावत.ह उमानाथ पादारविन्दं भजन्तीह लोके परे वा नराणाम l
न तावत.ह सुखं शान्ति सन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासम ll
न जानामि योगं जपं नैव पूजां नतो.अहं सदा सर्वदा शम्भु तुभ्यम l
जरा जन्म दुःखौघ तातप्यमानं प्रभो पाहि आपन्नमामीश शम्भो ll
रुद्राश्ह्टकमिदं प्रोक्तं विप्रेण हरतोश्हये l
ये पठन्ति नरा भक्त्या तेश्हां शम्भुः प्रसीदति ll
इति श्री गोस्वामी तुलसिदास कृतम श्रीरुद्राश्ह्टकम संपूर्णम ll
21 Twenty One Mukhi Nepal Rudraksha Original & Pure Color
Srirudram, also known as Rudraprasna, is a hymn devoted to lord Shiva. It is part of the Yajur Veda and one of the greatest of the Vedic hymns for all round benefits and to remove all doshas & difficulties. In most of the poojas and homas it recited by the Vedic pundits. Sri Rudram is in two parts. The first part, chapter 16 of the Yajurveda, is known as Namakam because of the repeated use of the word “Namo” in it. The second part, chapter 18 of the Yajurveda, is known as chamakam because of the repeated use of the words “Chame”.
Rudram is divided into 11 sections called Anuvakas.
Sri Rudram namakam+chamakam: Lyrics (Sanskrit+English)
Lord Shiva * Sri Rudram (श्री रुद्रम्), is a Hindu stotra (hymn) dedicated to Rudra (an expression of Lord Shiva), mentioned in the "Krishna Yajurveda, Taittiriya Samhita 4.5, 4.7". It is also called Rudradhyaya, Sri Rudraprasna, Śatarudrīya.
Recitation of this Stotra is practiced along with Yajna in "Rudra Yagnam".
Benefits of recitation: According to "Jābala Upanishad" the recitation of this Stotra of "Rudra" leads one to immortality (enlightenment). Chamaka part of recitation allows the patron to pray for fulfilment of his desires.
https://amzn.to/35ctmU9There are 11 Anuvakas(hymns) in the chapter 4.5 of Yajurveda, Taittiriya Samhita. These verses together are called "Namakam of Sri Rudram". There are 11 stanzas in chapter 4.7, These verses together are called "Chamakam of Sri Rudram"
There are also 11 forms of Shiva that are mentioned in the Brihadaranyaka Upanishad.
Namakam Anuvaka 1
॥ ओं नमो भगवते रुद्राय ॥
1.1
नमस्ते रुद्रमन्यव उतोत इषवेनमः ।
नमस्ते अस्तु धन्वने बाहुभ्या-मुत तेनमः ॥ १-१
Namaste Rudra manyava utota ishave Namah
Namaste astu dhanvane bahubhya muta te Namah
Salutations to you Rudra, Salutations O Lord
Salutations O Bow Armed Lord
1.2
यात इषुः शिवतमा शिवं बभूव तेधनुः ।
शिवा शरव्या या तव तया नोरुद्र मृडय ॥ १-२
Ya ta Ishu shivatama shivam babhuva te dhanuh
Shiva sharavya ya tava taya no Rudra mrudaya
O Lord, give us happiness, O wielder of Bows & Arrows
1.3
या तेरुद्र शिवा तनू-रघोराऽपापकाशिनी ।
तया नस्तनुवा शन्तमया गिरिशंताभिचाकशीहि ॥ १-३
Ya te Rudra Shiva tanura ghora papakashini
taya nastanuva shantamaya girishanta bhichakashihi
O Lord Rudra, One with terrible form, destroyer of sins
With your peaceful, auspeciousness bless us.
1.4
यामिषुं गिरिशंत हस्ते बिभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिसीः पुरुषं जगत् ॥ १-४
Yamishum giri shanta haste bibharsya stave
shivam giritra tam Kuru ma higmsih purusham jagat
O Lord living in the Mountains, giver of good things.
Make us peaceful, let the material world exist
1.5
शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।
यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १-५
Shivena vachasa tva giri shacchavadamasi
Yatha nah sarvam ijjaga dayakshmam sumana asatthu
O Lord of the great mountain of the Scriptures! We pray that the world be free from evil and be full of kindness
1.6
अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् ।
अहीश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्यः ॥ १-६
Adyavocha dadhivakta prathamo daivyo bhisak
Ahimscha sarvan jam bhyayant sarvascha yatudhanyah
1.7
असौ यस्ताम्रो अरुण उत बभ्रुः सुमंगलः ।
ये चेमारुद्रा अभितो दिक्षु।
श्रिताः सहस्रशोऽवैषाहेड ईमहे॥ १-७
Asau yastamro aruna uta babhru sumangalah
You chemam Rudra abhito dikshu shritaha Sahasra sho vaisagum heda imahe
1.8
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ १-८
Asau yo vasarpati nilagrivo vilohitah
utainam gopa adrushanna drushannu daharyah
Utainam vishva bhutani sa drusto mridayati nah
1.9
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १-९
Namo astu nilagrivaya sahasrakshaya midhushe
Atho you asya sattvano ham tebhyo karan namah
1.10
प्रमुंच धन्वनस्त्व-मुभयो-रार्त्नियो-र्ज्याम्।
याश्च ते हस्त इषवः परा ता भगवो वप ॥ १-१
Pramuncha dhanvanastva mubhayorartni yorjyam
yascha te hasta isavah para ta bhagavo vapa
1.11
अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १-११
Avatatya dhanustvam sahasraksha Shatesudhe
Nishirya shalyanam mukha shivo nah sumana bhava
1.12
विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत ।
अनेशन्नस्येषव आभुरस्य निषंगथिः ॥ १-१२
Vijyam dhanuh kapardino vishalyo banavam uta
Ane shanna syoushava abhurasya nishangathihi
1.13
या ते हेति-र्मीढुष्टम हस्ते बभूव ते धनुः ।
तयाऽस्मान्विश्वतस्त्व-मयक्ष्मया परिब्भुज ॥ १-१३
Ya te hetirmidhu stama haste babhuva te dhanuh
Taya sman visvatastva mayakshmaya Paribbhuja
1.14
नमस्ते अस्त्वायुधायानातताय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥ १-१४
Namaste astvayudhayana tataya dhrusnave
Ubhabhyam muta te namo bahubhyam tava dhanvane
1.15
परि ते धन्वनो हेति-रस्मान्व्रुणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १-१५
Pari te dhanvano hetir asman vrunaktuvisvatah
Atho ya ishudhis tavare asmannidhehi tam
नमस्तेअस्तुभगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नि-कालाय कालाग्निरुद्राय नीलकण्ठाय म्रुत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः
Namasteastu bhavagan vishvesvaraya mahadevaya triyambakaya triupurantakaya trikalagni kalaya kalaagni Rudraya nilakanthaya mrutyunjayaya sarveshvaraya sadashivaya Sriman mahadevaya Namah
Namakam Anuvaka 2
2.1
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो
Namo Hiranya bahave senanye dishaam ca pataye namo
2.2
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो
Namo vrukshebhyo harikeshebhyah pashuunam pataye namo
2.3
नमो सस्पिञ्चराय त्विषीमतेपथीनां पतयेनमो
Namo saspincharaaya tvisheemate patheenaam pataye namo
2.4
नमो बभ्लुशाय विव्याधिनेऽन्नानां पतयेनमो
Namo babhlu shaaya vivyadhine annanam Pataye namo
2.5
नमो हरिकेशायोपवीतिनेपुष्टानां पतयेनमो
Namo harike shaayopaveetine pushtaanaam pataye namo
2.6
नमो भवस्य हेत्यैजगतां पतयेनमो
Namo bhavasya hetyai jagataam pataye namo
2.7
नमो रुद्रायातताविनेक्षेत्राणां पतयेनमो
Namo Rudrayata ta vine kshetraanaam pataye namo
2.8
नमो सूताया हन्त्याय वनानां पतयेनमो
Namo Suutayaa hantyaya vanaanam pataye namo
2.9
नमो रोहिताय स्थपतयेवृक्षाणां पतयेनमो
Namo rohitaaya stha pataye vrikshaanam pataye namo
2.10
नमो मन्त्रिणेवाणिजाय कक्षाणां पतयेनमो
Namo mantrine vanijaya kakshanam pataye namah
2.11
नमो भुवंतयेवारिवस्कृतायौषधीनां पतयेनमो
Namo bhuvantaye vaarivaskrutayau shadhiinaam pataye namo
2.12
नमो उच्चैर्घोषायाक्रन्दयतेपत्तीनां पतयेनमो
Nama ucchair ghoshaya krandayate pattiinaam pataye namo
2.13
नमो कृत्स्नवीताय धावतेसत्वनां पतयेनमः
Namah krutsnavitaya dhavate satvanaam pataye namah
Namakam Anuvaka 3
3.1
नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो
Namah sahamaanaaya nivyaadhina aavyadhiniinam pataye namah
3.2
नमः ककुभाय निषङ्गिणेस्तेनानां पतये नमो
Namah kakubhaya nishanginestenaanam pataye namo
3.3
नमो निषङ्गिण इषुधिमतेतस्कराणां पतये नमो
Namo nishangina ishudhimate taskaraanam pataye namo
3.4
नमो वञ्चतेपरिवञ्चतेस्तायूनां पतये नमो
Namo vanchate pari vanchate stayuunaam pataye namo
3.5
नमो निचेरवेपरिचरायारण्यानां पतये नमो
Namo nicherave paricharayaranyanam pataye namo
3.6
नमः सृकाविभ्योजिघासद्भ्योमुष्णतां पतये नमो
Namah srukavibhyo jighasadbhyo mushnaataam pataye namo
3.7
नमो ऽसिमद्भ्योनक्तं चरद्भ्यः प्रकृन्तानां पतये नमो
Namo asimadbhyo naktam charadbhyah prakruntanam pataye namo
3.8
नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो
Nama ushniishine giricharaya kulunchaanam pataye namo
3.9
नमः इषुमद्भ्योधन्वाविभ्यश्च वो नमो
Nama ishumadbhyo dhanvavibhyascha vo namo
3.10
नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो
Nama atanvanebhyah pratida dhane bhyascha vo namo
3.11
नम आयच्छद्भ्योविसृजद्भ्यश्च वो नमो
Nama ayacchadbhyo visrujadbhyascha vo namo
3.12
नमो ऽस्यद्भ्योविद्ध्यद्भ्यश्च वो नमो
Namo asyadbhyo vidhyad bhyascha vo namo
3.13
नम आसीनेभ्यः शयानेभ्यश्च वो नमो
Nama asiinebhyah shayane bhyascha vo namo
3.14
नमः स्वपद्भ्योजाग्रद्भ्यश्च वो नमो
Namah svapadbhyo jagrad bhyascha vo namo
3.15
नम स्तिष्ठद्भ्योधावद्भ्यश्च वो नमो
Nama stishthadbhyo dhavad bhyascha vo namo
3.16
नमः सभाभ्यः सभापतिभ्यश्च वो नमो
Namah sabhabhyah sabhapati bhyascha vo namo
3.17
नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः
Namo ashvebhyo ashvapati bhyascha vo namah
Namakam Anuvaka 4
4.1 नम आव्यधिनीभ्योविविध्यन्तीभ्यश्च वो नमो
Nama aavyadhinibhyo vividhyanti bhyascha vo namo
4.2 नम उगणाभ्यस्तृहतीभ्यश्च वो नमो
Nama uganabhya struhati bhyascha vo namo
4.3 नमो गृत्सेभ्योग्रुत्सपतिभ्यश्च वो नमो
Namo grutsebhyo grutsapati bhyascha vo namo
4.4
नमो व्रातेभ्योव्रातपतिभ्यश्च वो नमो
Namo vraatebhyo vraata pati bhyascha vo namo
4.5 नमो गणेभ्योगणपतिभ्यश्च वो नमो
Namo ganebhyo Ganapati bhyascha vo namo
4.6 नमो विरूपेभ्योविश्वरूपेभ्यश्च वो नमो
Namo viruupebhyo vishvarupe bhyascha vo namo
4.7 नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो
Namo mahadbhyah kshullake bhyascha vo namo
4.8 नमो रथिभ्योऽरथेभ्यश्च वो नमो
Namo rathibhyo rathe bhyascha vo namah
4.9 नमः सेनाभ्यः सेननिभ्यश्च वोनमो
Namah senaabhya senani bhyascha vo namah
4.10
नमः क्षत्तृभ्यः संग्रहीतृभ्यश्च वो नमो
Namah kshattrubhyah sangrahitru bhyascha vo namah
4.11 नमस्तक्षभ्योरथकारेभ्यश्च वो नमो
Nama stakshabhyo ratha kar bhyascha vo namah
4.12 नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो
Namah kulalebhyah karmaare bhyascha vo namah
4.13 नमः पुञ्जिष्टेभ्यो निषादे भ्यश्च वो नमो
Namah punjishtebhyo nishade bhyascha vo namah
4.14 नम इषुकृद्भ्योधन्वकृद्भ्यश्च वो नमो
Nama ishukrudbhyo dhanva krud bhyascha vo namah
4.15 नमो म्रुगयुभ्यः श्वनिभ्यश्च वो नमो
Namo mrugayubhyah shva ni bhyascha vo namo
4.16
नमः श्वभ्यः श्वपतिभ्यश्च वो नमः
Namah shvabhyah shvapati bhyascha vo namah
Namakam Anuvaka 5
5.1
नमो भवाय च रुद्राय च
Namo bhavaaya cha Rudraaya cha
5.2
नमः शर्वाय च पशुपतये च
Namah sharvaaya cha pashupataye cha
5.3
नमो नीलग्रीवाय च शितिकण्ठाय च
Namo niilagriivaaya cha shiti kanthaya cha
5.4
नमः कपर्दिने च व्युप्तकेशाय च
Namah kapardine cha vyuptake shaaya cha
5.5
नमः सहस्राक्षाय च शतधन्वने च
Namah sahasraakshaaya cha shatadhanvane cha
5.6
नमो गिरिशाय च शिपिविष्टाय च
Namo giri shaaya cha shipivishtaaya cha
5.7
नमो मीढुष्टमाय चेषुमते च
Namo middhushta maaya cheshumate cha
5.8
नमो ह्रस्वाय च वामनाय च
Namo hrasvaaya cha vaamanaaya cha
5.9
नमो बृहते च वर्षीयसे च
Namo bruhate cha varshiiyase cha
5.10
नमो वृद्धाय च संवृद्ध्वने च
Namo vruddhaaya cha samvrudhvane cha
5.11
नमो अग्रियाय च प्रथमाय च
Namo Agriyaya cha prathamaaya cha
5.12
नम आशवे चाजिराय च
Nama Aashave chajiraya cha
5.13
नम्ः शीघ्रियाय च शीभ्याय च
Namah shiighriyaaya cha shiibhyaya cha
5.14
नम् ऊर्म्याय चावस्वन्याय च
Nama urmyaaya chaavasvanyaaya cha
5.15
नमः स्रोतस्याय च द्वीप्याय च
Namah srotasyaaya cha dviipyaya cha
Namakam Anuvaka 6
6.1
नमोज्येष्ठाय च कनिष्ठाय च
Namo jyeshthhaaya cha kanishthhaya cha
6.2
नमः पूर्वजाय चापरजाय च
Namah purvajaaya chaparajaaya cha
6.3
नमोमध्यमाय चापगल्भाय च
Namo Madhya maaya chapagalbhaya cha
6.4
नमो जघन्याय च बुध्नियाय च
Namo jaghanyaaya cha, budhniyaaya cha
6.5
नमः सोभ्याय च प्रतिसर्याय च
Namah shobhyaya cha, prati saryaya cha
6.6
नमो याम्याय च क्षेम्याय च
Namo yaamyaya cha, kshemyaya cha
6.7
नम उर्वर्याय च खल्याय च
Nama urvaryaaya cha khalyaaya cha
6.8
नमः श्लोक्याय चावसान्याय च
Nama shlokyaaya chaavasanyaaya cha
6.9
नमो वन्याय च कक्ष्याय च
Namo vanyaya cha, kakshyaya cha
6.10
नमः श्रवाय च प्रतिश्रवाय च
Namah shravaya cha pratisravaya cha
6.11
नम आशुषेणाय चाशुरथाय च
Nama asu shenaya chashurathaya cha
6.12
नमः शूराय चावभिन्दते च
Nama shuraya cha, chavabhindate cha
6.13
नमो वर्मिणे च वरूथिने च
Namo varmine cha, varuthine cha
6.14
नमो बिल्मिने च कवचिने च
Namo bilmine cha kavacine cha
6.15
नमः श्रुताय च श्रुतसेनाय च
Namah shrutaya cha shrutasenaya cha
Namakam Anuvaka 7
7.1
नमोदुन्दुभ्याय चाहनन्याय च
Namo dundubhyaya chahananyaya cha
7.2
नमोधृष्णवेच प्रमृशाय च
Namo dhrusnave cha pramrushaya cha
7.3
नमोदूताय च प्रहिताय च
Namo duutaya cha, prahitaya cha
7.4 नमो निषङ्गिणे चेषुधि मते च
Namo nisangine cheshudhi mate cha
7.5
नम स्तीक्ष्णेषवे चायुधिने च
Nama steekshneshave chayudhine cha
7.6
नमः स्वायुधाय च सुधन्वनेच
Namah svayu dhaya cha sudhanvane cha
7.7
नमः स्रुत्याय च पथ्याय च
Namah srutyaya cha payouraya cha
7.8
नमः काट्याय च नीप्याय च
Namah katyaya cha nipyaya cha
7.9
नमः सूद्याय च सरस्याय च
Namah sudyaya cha, sarasyaya cha
7.10
नमो नाद्याय च वैशन्ताय च
Namo nadyaya cha, vaishantaya cha
7.11 नमः कूप्याय चावट्याय च
Namah kupyaya chavatyaya cha
7.12
नमो वर्ष्याय चावर्ष्याय च
Namo varshyaya cha chavarshyaya cha
7.13
नमोमेघ्याय च विद्युत्याय च
Namo meghyaya cha, vidyutyaya cha
7.14
नम ईघ्रियाय चातप्याय च
Nama idhriyaya chatapyaya cha
7.15
नमो वात्याय च रेष्मियाय च
Namo vatyaya cha, reshmiyaya cha
7.16
नमो वास्तव्याय च वास्तुपाय च
Namo vastavyaya cha vastupaya cha.
Namakam Anuvaka 8
8.1
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च
Namah somaya cha Rudraya cha Namastamraya charunaya cha
8.2
नमः शङ्गाय च पशुपतयेच नम उग्राय च भीमाय च
Nama shangaya cha pashupataye cha Nama ugraya cha bhimaya cha
8.3
नमोअग्रेवधाय च दूरेवधाय च
Namo Agrevadhaya cha dure vadhaya cha
8.4
नमोहन्त्रेच हनीयसेच नमोवृक्षेभ्योह
Namo hantre cha haniyase cha Namo vrukshebhyo harikeshebhyo
8.5
नमस्ताराय नमः शंभवेच मयोभवेच
Nama staraya Namah shambhave cha mayo bhave cha
8.6
नमः शंकराय च मयस्कराय च
Namah shankaraya cha mayaskaraya cha
8.7
नमः शिवाय च शिवतराय च
Namah Shivaya cha shivataraya cha
8.8
नमस्तीर्थ्याय च कूल्याय च
Nama stiryouraya cha kulyaya cha
8.9
नमः पार्याय चावार्याय च
Namah paryaya chavaryaya cha
8.10
नमः प्रतरणाय चोत्तरणाय च
Namah prataranaya chottaranaya cha
8.11
नम आतार्याय चालाद्याय च
Nama ataryaya chaladyaya cha
8.12
नमः शष्प्याय च फेन्याय च
Namah shaspyaya cha, phenyaya cha
8.13
नमः सिकत्याय च प्रवाह्याय च
Namah sikatya ya cha pravahyaya cha.
Namakam Anuvaka 9
9.1
नम इरिण्याय च प्रपथ्याय च
Nama irinyaya cha prapayouraya cha
9.2
नमः किशिलाय च क्षयणाय च
Namah kishilya cha kshayanaya cha
9.3
नमः कपर्दिनेच पुलस्तयेच
Namah kapardine cha pulastayou cha
9.4
नमोगोष्ठ्याय च गृह्याय च
Namo goshtyaaya cha, grihyaaya cha
9.5
नमस्तल्प्याय च गेह्याय च
Nama stalpyaya cha, gehyaya cha
9.6
नमः काट्याय च गह्वरेष्ठाय च
Namah katyaya cha, gahvareshthaya cha
9.7
नमोहृदय्याय च निवेष्प्याय च
Namo hradayyaya cha niveshpya ya cha
9.8
नमः पासव्याय च रजस्याय च
Namah pam savyaya cha rajasyaya cha
9.9
नमः शुष्क्याय च हरित्याय च
Nama shushkyaya cha Harityaya cha
9.10
नमो लोप्याय चोलप्याय च
Namo lopyaya cholapya cha
9.11
नम ऊर्व्याय च सूर्म्याय च
Nama urvyaya cha surmyaya cha
9.12
नमः पर्ण्याय च पर्णशद्याय च
Namah panaryaya cha parnashadyaya cha
9.13
नमोऽपगुरमाणाय चाभिघ्नतेच
Namo paguramanaya chabhighnate cha
9.14
नम आख्खिदतेच प्रख्खि दते च
Nama akkhyidate cha, prakkhi date cha
9.15
नमो वः किरिकेभ्योदेवाना हृदयेभ्यो
Namo vah kirikebhyo devanam hrudayou bhyo
9.16
नमो विक्षीण केभ्यो नमो विचिन्वत्केभ्यो
Namo vikshina kebhyo Namo vichinvakte bhyo
9.17
नम आनिर्हतेभ्यो नम आमीवत्केभ्यः
Nama anir hatebhyo Nama amivaktebhyaha
Namakam Anuvaka 10
10.1
द्रापेअन्धसस्पतेदरिद्रन्नीललोहित
एषां पुरुषाणामेषां पशूनां मा भेर्मारोमोएषां
किंचनाममत्
Drape Andha saspate daridran nilalohita
esham purushanam esham pushunam ma bhermaro mo esham
kim chanamamat
10.2
या तेरुद्र शिवा तनूः शिवा विश्वाह भेषजी
शिवा रुद्रस्य भेषजी तया नोमृड जीवसे
Ya te Rudra Shiva tanu Shiva vishvaha bheshaji
Shiva Rudrasya Bhesaji tasya no mruda jivase
10.3
इमारुद्राय तवसेकपर्दिनेक्षयद्वीराय प्रभरामहेमतिम्
यथा नः शमसद्द्विपदेचतुष्पदेविश्वं पुष्टं ग्रामे
आस्मिन्ननातुरम्
Ima Rudraya tavase kapardane kshayadviraya Prabhara mahe matim
Yatha na sha masa dvipade chatushpade vishvam pushtam Grame
asminnana turam
10.4
मृडा नोरुद्रोतनोमयस्कृधि क्षयद्वीराय नमसा विधेम ते
यच्छं च योश्च मनुरायजेपिता तदश्याम तव रुद्र प्रणीतौ
Mruda no Rudrota no maya skrudhi kshayadviraya Namasa vidhema te
yacchamcha yoscha manurayaje pita Tadshyama tava Rudra pranitau
10.5
मा नोमहान्तमुत मा नोअर्भकं मा न उक्षन्त-मुत मा न उक्षितम्
मा नोवधीः पितरं मोत मातरं प्रिया मा नस्तनुवोरुद्र रीरिषः
Ma no mahanta muta ma no arbhakam ma na ukshanta Muta ma na ukshitam
ma no vadhih pitaram mota Mataram priya ma nastanuvo Rudra ririshaha
10.6
मानस्तोके तनयेमा न आयुषि मा नोगोषु मा नोअश्वेषुरीरिषः
वीरान्मा नोरुद्र भामितोऽवधी-र्हविष्मन्तो नमसा विधेम ते
Ma nastoke tanayou ma na ayusi ma no goshu ma no Ashveshu ririsaha
Veeraanmaa no Rudra bhamito vadhirhavi - shmanto namasa vidhema te
10.7
आरात्तेगोघ्न उत्त पूरुषघ्नेक्षयद्वीराय सुम्नमस्मेतेअस्तु
रक्षा च नोअधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः
Aratte goghna uta purushaghne kshayadviraya sumna masme Te astu
Raksha cha no adhi cha deva bruhyatha cha nah Sharma yacchavi barhah
10.8
स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीम-मुपहत्नुमुग्रम्
म्रुडा जरित्रेरुद्र स्तवानोअन्यन्ते
अस्मन्निवपन्तुसेनाः
Stuhi shrutam garta sadam yuvanam mrugannabhima mupahat numugram
mruda jaritre Rudra Satvano anyante
asmanniva pantu senaha
10.9
परिणोरुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय
तनयाय म्रुडय
Parino Rudrasya hetir vrunaktu pari tve shasya durmati raghayoho
Ava sthira maghavad bhyastanushva midhvasttokaya
tanayaya mridaya
10.10
मीढुष्टम शिवतम शिवोनः सुमना भव
परमेव्रुक्ष आयुधं निधाय कृत्तिं वसान
आचर पिनाकं विभ्रदागहि
Midhushthama shivatama shivo nah sumana bhava
parame vriksha Ayudhan nidhaya krittim vasana
aachar pinakam vibhradaagaahi
10.11
विकिरिद विलोहित नमस्तेअस्तुभगवः
यास्तेसहस्रहेतयोऽन्यमस्मन्निवपन्तुताः
Vikirida vilohita Namaste astu bhagavaha
Yaste sahasragam hetayo nyamasmanniva pantu tah
10.12
सहस्राणि सहस्रधा बाहुवोस्तव हेतयः
तासामीशानोभगवः पराचीना मुखा कृधि
Sahasrani sahasradha bahuvostava hetayah
Tasamishano bhagavah parachina mukha krudhi
Namakam Anuvaka 11
11.1
सहस्राणि सहस्रशोयेरुद्रा अधि भूम्याम्
तेषासहस्रयोजनेऽवधन्वानि तन्मसि
Sahasrani sahasrasho you Rudra Adhi bhumyam
Teshagam Sahasra yojane vadhanvani tanmasi
11.2
अस्मिन् महत्यर्णवेऽन्तरिक्षेभवा अधि
Asmin mahatyarnaven tarikshe bhava adhi
11.3
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः
Nila griva shiti kantha sharva adhah kshama charah
11.4
नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः
Nila griva shiti kantha divam Rudra upashritaha
11.5
येवृक्षेषुसस्पिंजरा नीलग्रीवा विलोहिताः
Yo vrikshesu saspinjara nilagriva vilohitaha
11.6
येभूतानामधिपतयोविशिखासः कपर्दिनः
Yo bhutana madhi patayo vishikhasah kapardianaha
11.7
येअन्नेषु विविध्यन्ति पात्रेषुपिबतोजनान्
You anneshu vividhyanti patresu pibato janaan
11.8
येपथां पथिरक्षय ऐलबृदा यव्युधः
Yo pathaam pathi rakshaya Elabruda yavyudhah
11.9
येतीर्थानि प्रचरन्ति सृकावन्तोनिषङ्गिणः
Yeteerthani pracharanti srukavanto nisanginah
11.10
य एतावन्तश्च भूयासश्च दिशोरुद्रा वितस्थिरे
तेषासहस्र-योजने। अवधन्वानि तन्मसि
Ya etavanta scha bhuyam sascha disho Rudra vitasthire
Tesagam sahasra yojane vadhanvani tanmasi
नमोरुद्रेभ्योयेपृथिव्यां ये। अन्तरिक्षे
येदिवि येषामन्नं वातोवर्षमिषव-स्तेभ्योदश
प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो
नमस्तेनोमृडयन्तुतेयं द्विष्मोयश्च नोद्वेष्टि
तं वोजम्भेदधामि
Namo Rudrebhyo you pruthivyam you ntarikshe
You divi yousa mannam vato varsamisa vastebhyo Dasha
Prachirdasha dakshina dasha prati cirda sho dicirda shor Dhvastebhyo
Namaste no mridayantu te yam dvismo Yashcha no dvesti
tam vo jambhe dadhami.
त्र्यंबकं यजामहेसुगन्धिं पुष्टिवर्धनम्। उर्वारुकमिव बन्धनान्मृत्यो-र्मुक्षीय मामृतात्
Tryambakam yajamahe sugandhim pushtivardhanam urvarurkamiva bhamdhanam mrityor mukshiya mamritate.
योरुद्रोअग्नौयोअप्सुय ओषधीषु
योरुद्रोविश्वा भुवनाऽऽविवेश
तस्मैरुद्राय नमोअस्तु
Yo Rudro agnau yo apsu ya oshadhishu
yo Rudro vishva bhuvana vivesha
tasmai Rudraya namo astu
तमुष्टुहि यः स्विषुः सुधन्वा योविश्वस्य क्षयति भेषजस्य
यक्ष्वामहेसौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य
Tamu shthuti yah svishuh sudhanva yo vishvasya shyati bheshajasya
Yakshvamahe saumanasaya Rudram namo bhrdevamasuram duvasya
अयं मेहस्तोभगवानयं मेभगवत्तरः
अयं मेविश्व-भेषजोऽय शिवाभिमर्शनः
ayam Mehastobhagavaanayam Mebhagavattaraha
Ayam me vishvabhesajo yam shivabhimarshanaha
Ayam
येतेसहस्रमयुतं पाशा मृत्योमर्त्याय हन्तवे।
तान् यज्ञस्य मायया सर्वानव यजामहे।
मृत्यवेस्वाहा मृत्यवेस्वाहा
Yo te sahasramayutam pasha mrityo martyaya hantave
Tanyagyasya mayaya sarvanava yajamahe
Mrityave Svaha, Mrityave Svahaha
ओंनमोभगवतेरुद्राय विष्णवेमृत्युर्मे पाहि ।
प्राणानां ग्रन्थिरसि रुद्रोमा विशान्तकः ।
तेनान्नेनाप्यायस्व
OM Namo Bhagavate Rudraya Vishnave mrityume pahi
Prananam granthirasi rudro ma vishantakaha.
Tenan nenapyayasva
नमोरुद्राय विष्णवेमृत्युर्मे पाहि
Namo Bhagavate Rudraya Vishnave mrityume pahi
Chamakam Anuvaka 1
ॐ अग्नाविष्णूसजोषसेमा वर्धन्तुवां गिरः ।
द्युम्नैर्वाजेभिरागतम् ॥
Om Agnaavishhnuu sajoshhasemaa vardhantu vaam girah
Dyumnairvaajebhiraagatam
वाजश्च मेप्रसवश्च मे
प्रयतिश्च मेप्रसितिश्च मेधीतिश्च मेक्रतुश्च मे
स्वरश्च मेश्लोकश्च मेश्रावश्च मेश्रुतिश्च मे
ज्योतिश्च मेसुवश्च मेप्राणश्च मेऽपानश्च मे
व्यानश्च मेऽसुश्च मेचित्तं च म आधीतं च मे
वाक्च मेमनश्च मेचक्षुश्च मेश्रोत्रं च मेदक्षश्च मे
बलं च म ओजश्च मेसहश्च म आयुश्च मे
जरा च म आत्मा च मेतनूश्च मेशर्म च मेवर्म च मे
ऽङ्गानि च मेऽस्थानि च मेपरूषि च मे
शरीराणि च मे
Vaajashcha me prasavashcha me
prayatishcha me prasitishcha me dhiitishcha me kratushcha me
svarashcha me shlokashcha me shraavashcha me shrutishcha me
jyotishcha me suvashcha me praanashcha me apaanashcha me
vyaanashcha me asushcha me chittam cha ma aadhiitam cha me
vaakcha me manashcha me chakshushcha me shrotram cha me dakshashcha me
balam cha ma ojashcha me sahashcha ma aayushcha me
jaraa cha ma aatmaa cha me tanuushcha me sharma cha me
varma cha me angaani cha me asthaani cha me paruushhi cha me
shariiraani cha me
Chamakam Anuvaka 2
ज्यैष्ठ्यं च म आधिपथ्यं च मेमन्युश्च मे
भामश्च मेऽमश्च मेऽम्भश्च मेजेमा च मेमहिमा च मे
वरिमा च मेप्रथिमा च मेवर्ष्मा च मेद्राघुया च मे
वृद्धं च मेवृद्धिश्च मेसत्यं च मेश्रद्धा च मे
जगच्च मेधनं च मेवशश्च मेत्विषिश्च मेक्रीडा च मे
मोदश्च मेजातं च मेजनिष्यमाणं च मेसूक्तं च मे
सुकृतं च मेवित्तं च मेवेद्यं च मेभूतं च मे
भविष्यच्च मेसुगं च मेसुपथं च म ऋद्धं च म ऋद्धिश्च मे
कॢप्तं च मेकॢप्तिश्च मेमतिश्च मेसुमतिश्च मे
Jyaishhthyam cha ma aadhipathyam cha me manyushcha me
bhaamashcha meamashcha meambhashcha me jemaa cha me mahimaa cha me
varimaa cha me prathimaa cha me varshhmaa cha me draaghuyaa cha me
vriddham cha me vriddhishcha me satyam cha me shraddhaa cha me
jagachcha me dhanam cha me vashashcha me tvishhishcha me kreedaa cha me
modashcha me jaatam cha me janishhyamaanam cha me suuktam cha me
sukritam cha me vittam cha me vedyam cha me bhuutam cha me
bhavishhyachcha me sugam cha me supatham cha ma riddham cha ma riddhishcha me
kliptam cha me kliptishcha me matishcha me sumatishcha me
Chamakam Anuvaka 3
शं च मेमयश्च मेप्रियं च मेऽनुकामश्च मे
कामश्च मेसौमनसश्च मेभद्रं च मेश्रेयश्च मे
वस्यश्च मेयशश्च मेभगश्च मेद्रविणं च मे
यन्ता च मेधर्ता च मेक्षेमश्च मेधृतिश्च मे
विश्वं च मेमहश्च मेसंविच्च मेज्ञात्रं च मे
सूश्च मेप्रसूश्च मेसीरं च मेलयश्च म ऋतं च मे
ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मेजीवातुश्च मे
दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मेसुगं च मे
शयनं च मेसूषा च मेसुदिनं च मे
Shancha me mayashcha me priyam cha menukaamashcha me
kaamashcha me saumanasashcha me bhadram cha me shreyashcha me
vasyashcha me yashashcha me bhagashcha me dravinam cha me
yantaa cha me dhartaa cha me kshemashcha me dhritishcha me
vishvam cha me mahashcha me samvichcha me Jnaatram cha me
suushcha me prasuushcha me siiram cha me layashcha ma ritam cha me
amritam cha meayakshmam cha meanaamayachcha me jeevaatushcha me
diirghaayutvam cha meanamitram cha me abhayam cha me sugam cha me
shayanam cha me suushhaa cha me sudinam cha me
Chamakam Anuvaka 4
ऊर्क्च मेसूनृता च मेपयश्च मेरसश्च मे
घृतं च मेमधुच मेसग्धिश्च मेसपीतिश्च मे
कृषिश्च मेवृष्टिश्च मेजैत्रं च म औद्भिद्यं च मे
रयिश्च मेरायश्च मेपुष्टं च मेपुष्टिश्च मे
विभुच मेप्रभुच मेबहु च मेभूयश्च मे
पूर्णं च मेपूर्णतरं च मेऽक्षितिश्च मेकूयवाश्च मे
ऽन्नं च मेऽक्षुच्च मेव्रीहियश्च मेयवाश्च मेमाषाश्च मे
तिलाश्च मेमुद्गाश्च मेखल्वाश्च मेगोधूमाश्च मे
मसुराश्च मेप्रियंगवश्च मेऽणवश्च मे
श्यामाकाश्च मेनीवाराश्च मे
Uurkcha me suunritaa cha me payashcha me rasashcha me
ghritam cha me madhu cha me sagdhishcha me sapiitishcha me
krishhishcha me vrishhtishcha me jaitram cha ma audbhidyam cha me
rayishcha me raayashcha me pushhtam cha me pushhtishcha me
vibhu cha me prabhu cha me bahu cha me bhuuyashcha me puurnam cha me
puurnataram cha me akshitishcha me kuuyavaashcha me
annam cha meakshuchcha me vriihiyashcha me yavaashcha me maashhaashcha me
tilaashcha me mudgaashcha me khalvaashcha me godhuumaashcha me
masuraashcha me priyamgavashcha me Anavashcha me
shyaamaakaashcha me nivaaraashcha me
Chamakam Anuvaka 5
अश्मा च मेमृत्तिका च मेगिरयश्च मेपर्वताश्च मे
सिकताश्च मेवनस्पतयश्च मेहिरण्यं च मे
ऽयश्च मेसीसं च मेत्रपुश्च मेश्यामं च मे
लोहं च मेऽग्निश्च म आपश्च मेवीरुधश्च म
ओषधयश्च मेकृष्टपच्यं च मेऽकृष्टपच्यं च मे
ग्राम्याश्च मेपशव आरण्याश्च यज्ञेन कल्पन्तां
वित्तं च मेवित्तिश्च मेभूतं च मेभूतिश्च मे
वसुच मेवसतिश्च मेकर्म च मेशक्तिश्च मे
ऽर्थश्च म एमश्च म इतिश्च मेगतिश्च मे
Ashmaa cha me mrittikaa cha me girayashcha me parvataashcha me
sikataashcha me vanaspatayashcha me hiranyam cha me
ayashcha me siisam cha me trapushcha me shyaamam cha me
loham cha me agnishcha ma aapashcha me viirudhashcha ma
oshhadhayashcha me krishhtapachyam cha me akrishhtapachyam cha me
graamyaashcha me pashava aaranyaashcha yagyena kalpantaam vittam cha me
vittishcha me bhuutam cha me bhuutishcha me
vasu cha me vasatishcha me karma cha me shaktishcha me
arthashcha ma emashcha ma itishcha me gatishcha me
Chamakam Anuvaka 6
अग्निश्च म इन्द्रश्च मेसोमश्च म इन्द्रश्च मे
सविता च म इन्द्रश्च मेसरस्वती च म इन्द्रश्च मे
पूषा च म इन्द्रश्च मेबृहस्पतिश्च म इन्द्रश्च मे
मित्रश्च म इन्द्रश्च मेवरुणश्च म इन्द्रश्च मे
त्वष्टा च म इन्द्रश्च मेधाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे
मरुतश्च म इन्द्रश्च मेविश्वेच मेदेवा इन्द्रश्च मे
पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे
द्यौश्च म इन्द्रश्च मेदिशश्च म इन्द्रश्च मे
मूर्धा च म इन्द्रश्च मेप्रजापतिश्च म इन्द्रश्च मे
Agnishcha ma indrashcha me somashcha ma indrashcha me
savitaa cha ma indrashcha me sarasvatii cha ma indrashcha me
puushhaa cha ma indrashcha me brihaspatishcha ma indrashcha me
mitrashcha ma indrashcha me varunashcha ma indrashcha me
tvashhtaa cha ma indrashcha me dhaataa cha ma indrashcha me
vishhnushcha ma indrashcha meashvinau cha ma indrashcha me
marutashcha ma indrashcha me vishve cha me devaa indrashcha me
prithivii cha ma indrashcha meantariiksham cha ma indrashcha me
dyaushcha ma indrashcha me dishashcha ma indrashcha me
muurdhaa cha ma indrashcha me prajaapatishcha ma indrashcha me
Chamakam Anuvaka 7
अशुश्च मेरश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म
उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे
मैत्रावरुणश्च म आश्विनश्च मेप्रतिपस्थानश्च मे
शुक्रश्च मेमन्थी च म आग्रयणश्च मेवैश्वदेवश्च मे
ध्रुवश्च मेवैश्वानरश्च म ऋतुग्राहाश्च मे
ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मेवैश्वदेवाश्च मे
मरुत्वतीयाश्च मेमाहेन्द्रश्च म आदित्यश्च मे
सावित्रश्च मेसारस्वतश्च मेपौष्णश्च मे
पात्नीवतश्च मेहारियोजनश्च मे
Ashushcha me rashmishcha meadaabhyashcha me adhipatishcha ma
upaashushcha me antaryaamashcha ma aindravaayashcha me
maitraavarunashcha ma aashvinashcha me pratipasthaanashcha me
shukrashcha me manthii cha ma aagrayanashcha me vaishvadevashcha me
dhruvashcha me vaishvaanarashcha ma ritugraahaashcha me
atigraahyaashcha ma aindraagnashcha me vaishvadevaashcha me
marutvatiiyaashcha me maahendrashcha ma aadityashcha me
saavitrashcha me saarasvatashcha me paushhnashcha me
paatniivatashcha me haariyojanashcha me
Chamakam Anuvaka 8
इध्मश्च मेबर्हिश्च मेवेदिश्च मेधिष्णियाश्च मे
स्रुचश्च मेचमसाश्च मेग्रावाणश्च मेस्वरवश्च म
उपरवाश्च मे। अधिषवणेच मेद्रोणकलशश्च मे
वायव्यानि च मेपूतभृच्च मेआधवनीयश्च म
आग्नीध्रं च मेहविर्धानं च मेगृहाश्च मेसदश्च मे
पुरोडाशाश्च मेपचताश्च मेऽवभृथश्च मे
स्वगाकारश्च मे
Idhmashcha me barhishcha me vedishcha me dhishhniyaashcha me
sruchashcha me chamasaashcha me graavaanashcha me svaravashcha ma
uparavaashcha me Adhishhavane cha me dronakalashashcha me
vaayavyaani cha me puutabhrichcha me aadhavaniiyashcha ma
aagniidhram cha me havirdhaanam cha me grihaashcha me sadashcha me
purodaashaashcha me pachataashcha me avabhrithashcha me
svagaakaarashcha me
Chamakam Anuvaka 9
अग्निश्च मेधर्मश्च मेऽर्कश्च मेसूर्यश्च मे
प्राणश्च मेऽश्वमेधश्च मेपृथिवी च मेऽ दितिश्च मे
दितिश्च मेद्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे
यज्ञेन कल्पन्तामृक्च मेसाम च मेस्तोमश्च मे
यजुश्च मेदीक्षा च मेतपश्च म ऋतुश्च मेव्रतं च मे
ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरेच मेयज्ञेन कल्पेताम्
Agnishcha me dharmashcha mearkashcha me suuryashcha me
praanashcha meashvamedhashcha me prithivii cha meditishcha me
ditishcha me dyaushcha me shakkvariirangulayo dishashcha me
yagyena kalpantaam rikcha me saama cha me stomashcha me
yajushcha me diikshaa cha me tapashcha ma ritushcha me vratam cha me
ahoraatrayorvrishhtyaa brihadrathantare cha me yagyena kalpetaamh
Chamakam Anuvaka 10
गर्भाश्च मेवत्साश्च मेत्रविश्च मेत्रवी च मे
दित्यवाट् च मेदित्यौही च मेपञ्चाविश्च मे
पञ्चावी च मेत्रिवत्सश्च मेत्रिवत्सा च मे
तुर्यवाट् च मेतुर्यौही च मेपष्ठवाट् च मेपष्ठौही च म
उक्षा च मेवशा च म ऋषभश्च मेवेहश्च मे
ऽनड्वाञ्च मेधेनुश्च म आयुर्यज्ञेन कल्पतां
प्राणोयज्ञेन कल्पतामपानोयज्ञेन कल्पतां
व्यानोयज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता
श्रोत्रं यज्ञेन कल्पतां मनोयज्ञेन कल्पतां
वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां
यज्ञोयज्ञेन कल्पताम्
Garbhaashcha me vatsaashcha me travishcha me
travii cha me dityavaath cha me dityauhii cha me
pajnchaavishcha me pajnchaavii cha me trivatsashcha me
trivatsaa cha me turyavaath cha me turyauhii cha me pashhthavaath cha me pashhthauhii cha ma
ukshaa cha me vashaa cha ma rishhabhashcha me vehashcha me
anadvaajncha me dhenushcha ma aayuryagyena kalpataam
praano yagyena kalpataamapaano yagyena kalpataam
vyaano yagyena kalpataam chakshuryagyena kalpataam
shrotram yagyena kalpataam mano yagyena kalpataam
vaagyagyena kalpataam aatmaa yagyena kalpataam
yagyo yagyena kalpataamh
Chamakam Anuvaka 11
एका च मेतिस्रश्च मेपञ्च च मेसप्त च मे
नव च म एकदश च मेत्रयोदश च मेपंचदश च मे
सप्तदश च मेनवदश च म एक विशतिश्च मे
त्रयोविशतिश्च मेपंचविशतिश्च मे
सप्तविशतिश्च मेनवविशतिश्च म
एकत्रिशच्च मेत्रयस्त्रिशच्च मे
चतस्रश्च मेऽष्टौच मेद्वादश च मेषोडश च मे
विशतिश्च मेचतुर्विशतिश्च मेऽष्टाविशतिश्च मे
द्वात्रिशच्च मेषट्त्रिशच्च मेचत्वरिशच्च मे
चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे
वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च
व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च
भुवनश्चाधिपतिश्च
Ekaa cha me tisrashcha me pajncha cha me sapta cha me
nava cha ma ekadasha cha me trayodasha cha me pamchadasha cha me
saptadasha cha me navadasha cha ma eka vishatishcha me
trayovishatishcha me pamchavishatishcha me
saptavishatishcha me navavishatishcha ma
ekatrishachcha me trayastrishachcha me
chatasrashcha me ashhtau cha me dvaadasha cha me shhodasha cha me
vishatishcha me chaturvishatishcha meashhtaavishatishcha me
dvaatrishacchha me shhattrishachcha me chatvarishachcha me
chatushchatvaarishachcha meashhtaachatvaarishachcha me
vaajashcha prasavashchaapijashcha kratushcha suvashcha muurdhaa cha
vyashniyashcha antyaayanashcha antyashcha bhauvanashcha
bhuvanashchaadhipatishcha
इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि
शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा
मा हिसीर्मधुमनिष्येमधुजनिष्येमधुवक्ष्यामि
मधुवदिष्यामि मधुमतीं देवेभ्योवाचमुद्यास
शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु
शोभायैपितरोऽनुमदन्तु॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डेसप्तमः प्रपाठकः ॥
Idaa devahuurmanuryagyaniirbrihaspatirukthaamadaani
shasishhadvishvedevaah suuktavaachah prithiviimaatarmaa
maa hisiirmadhu manishhye madhu janishhye madhu vakshyaami
madhu vadishhyaami madhumatiim devebhyo vaachamudyaasa
shushruushhenyaam manushhyebhyastam maa devaa avantu
shobhaayai pitaroanumadantu
Om shaantih shaantih shaantih.